हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Aranya Kanda Sarga 9 – अरण्यकाण्ड नवमः सर्गः (९)


॥ सीताधर्मावेदनम् ॥

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ १ ॥

अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् ।
निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ॥ २ ॥

त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।
मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ ॥ ३ ॥

परदाराभिगमनं विना वैरं च रौद्रता ।
मिथ्या वाक्यं न ते भूतं न भविष्यति राघव ॥ ४ ॥

कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ।
तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ॥ ५ ॥

मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ।
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ॥ ६ ॥

धर्मिष्ठः सत्यसन्धश्च पितुर्निर्देशकारकः ।
सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज ॥ ७ ॥

त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ।
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः ॥ ८ ॥

तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ।
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ॥ ९ ॥

निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ।
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ॥ १० ॥

ऋषीणां रक्षणार्थाय वधः सम्यति रक्षसाम् ।
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ॥ ११ ॥

प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ।
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ॥ १२ ॥

त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ।
न हि मे रोचते वीर गमनं दण्डकान्प्रति ॥ १३ ॥

कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ।
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ॥ १४ ॥

दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याः शरव्ययम् ।
क्षत्रियाणां च हि धनुर्हुताशस्येन्धनानि च ॥ १५ ॥

समीपतः स्थितं तेजो बलमुच्छ्रयते भृशम् ।
पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः ॥ १६ ॥

कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ।
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ॥ १७ ॥

खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ।
तस्मिंस्तदाश्रमपदे निशितः खड्ग उत्तमः ॥ १८ ॥

स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ।
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ॥ १९ ॥

वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः ।
यत्र गच्छत्युपादातुं मूलानि च फलानि च ॥ २० ॥

न विना याति तं खड्गं न्यासरक्षणतत्परः ।
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः ॥ २१ ॥

चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ।
ततः स रौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः ॥ २२ ॥

तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ।
एवमेतत्पुरा वृत्तं शस्त्रसम्योगकारणम् ॥ २३ ॥

अग्निसम्योगवद्धेतुः शस्त्रसम्योग उच्यते ।
स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ॥ २४ ॥

न कथञ्चन सा कार्या गृहीतधनुषा त्वया ।
बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् ॥ २५ ॥

अपराधं विना हन्तुं लोकान्वीर न कामये ।
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् ॥ २६ ॥

धनुषा कार्यमेतावदार्तानामभिरक्षणम् ।
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ॥ २७ ॥

व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ।
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् ॥ २८ ॥

पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ।
अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम ॥ २९ ॥

यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ।
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ॥ ३० ॥

धर्मेण लभते सर्वं धर्मसारमिदं जगत् ।
आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः ॥ ३१ ॥

प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ।
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।
सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ ३२ ॥

स्त्रीचापलादेतदुदाहृतं मे
धर्मं च वक्तुं तव कः समर्थः ।
विचार्य बुद्ध्या तु सहानुजेन
यद्रोचते तत्कुरु मा चिरेण ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे नवमः सर्गः ॥ ९ ॥


www.sanatanadharm.com